Vishnu


 

विष्णोः

विष्णोर्हास्यमसौ माया तदाधारा जडाधमा। प्रध्वंसोsस्या अनादेश्च विष्णोः पदविलोचनात्।।१।।

देवानां परमो विष्णुरवमोsग्निरिति श्रुतेः। अयं विष्णुरजोsनादिरनन्तो विश्वकारणः।।२।।

सूरयस्तत्पदं श्रेष्ठं सदा पश्यन्ति नेतरे। वीर्याणि तस्य कोsप्यत्र न वेदोरुक्रमस्य च।।३।।

प्रागुत्पाद्य विधिं नाभेर्वेदान्दत्वा ततो जगत्।। उत्पादयत्यसावेव बुद्धिदीपो मुमुक्षुराट्।।४।।

भीत्याप्यधिकृता यस्मा उद्वहन्ति बलिं सुराः।। माययाsश्नन्त्यन्यदत्तं सम्राज्ञ इव भूमिपाः।।५।।

यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात्। इच्छामात्रे पुनर्जाते सेश्वरोत्पद्यते च सा।।६।।

आत्मभूतस्यास्य शत्रुः स क्रूरो यात्यधोगतिम्। दुरत्ययामपि घ्नन्ति मायां यद्रूपचिन्तकाः।।७।।

अर्वाचीनाः सुराः केsपि न विदुर्यं तदुद्भवाः। स सर्वज्ञोsपि चात्मानं कार्त्स्न्यान्नो वेद वेद वा।।८।।

यस्यैकपादियं माया त्रिपादस्यामृतं दिवि। स देवदेवदेवेशः कथं नार्च्यस्त्रिविक्रमः।।९।।

श्रीवैष्णवैशगाणेशसौर्यशाक्त्यादिरूपधृक्। दत्तात्रेयोsस्त्वजोsनंतः सदा मे हृदि सद्गुरुः।।१०।।

कृत्वैकदेशभक्तिं ये मात्सर्येण द्विषन्ति च। अन्यदेवं च तद्भक्तं ते यान्ति नरकं ध्रुवम्।।११।।

विष्णुः शिवो गणेशोsर्कः शक्तिश्चेति पृथङ् न हि। एकोsजः पञ्चधा जातः कुतो भेदोsस्ति दैवतैः।।१२।।

एतानीशाङ्गानि तृप्येदेकस्यापीह तर्पणात्। यथास्याक्ष्यादितृप्त्यांगी चोद्विजेदेकनिन्दया।।१३।।

देवद्रोहस्ततस्त्याज्यस्तद्भक्तस्यापि सर्वदा। यथारुचीश्वरः सेव्यो नान्यथा भेदमाचरेत्।।१४।।

इति पञ्चायतनमाहात्म्यम्

 


Top