|
विष्णोः
विष्णोर्हास्यमसौ माया तदाधारा जडाधमा।
प्रध्वंसोsस्या
अनादेश्च विष्णोः पदविलोचनात्।।१।।
देवानां परमो विष्णुरवमोsग्निरिति
श्रुतेः। अयं
विष्णुरजोsनादिरनन्तो
विश्वकारणः।।२।।
सूरयस्तत्पदं श्रेष्ठं सदा पश्यन्ति नेतरे।
वीर्याणि तस्य कोsप्यत्र
न वेदोरुक्रमस्य च।।३।।
प्रागुत्पाद्य विधिं नाभेर्वेदान्दत्वा ततो जगत्।।
उत्पादयत्यसावेव
बुद्धिदीपो मुमुक्षुराट्।।४।।
भीत्याप्यधिकृता यस्मा उद्वहन्ति बलिं सुराः।।
माययाsश्नन्त्यन्यदत्तं
सम्राज्ञ इव भूमिपाः।।५।।
यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात्।
इच्छामात्रे
पुनर्जाते सेश्वरोत्पद्यते च सा।।६।।
आत्मभूतस्यास्य शत्रुः स क्रूरो यात्यधोगतिम्।
दुरत्ययामपि
घ्नन्ति मायां यद्रूपचिन्तकाः।।७।।
अर्वाचीनाः सुराः केsपि
न विदुर्यं तदुद्भवाः।
स सर्वज्ञोsपि
चात्मानं कार्त्स्न्यान्नो वेद वेद वा।।८।।
यस्यैकपादियं माया त्रिपादस्यामृतं दिवि।
स देवदेवदेवेशः
कथं नार्च्यस्त्रिविक्रमः।।९।।
श्रीवैष्णवैशगाणेशसौर्यशाक्त्यादिरूपधृक्।
दत्तात्रेयोsस्त्वजोsनंतः
सदा मे हृदि सद्गुरुः।।१०।।
कृत्वैकदेशभक्तिं ये मात्सर्येण द्विषन्ति च।
अन्यदेवं च
तद्भक्तं ते यान्ति नरकं ध्रुवम्।।११।।
विष्णुः शिवो गणेशोsर्कः
शक्तिश्चेति पृथङ् न हि।
एकोsजः
पञ्चधा जातः कुतो भेदोsस्ति
दैवतैः।।१२।।
एतानीशाङ्गानि तृप्येदेकस्यापीह तर्पणात्।
यथास्याक्ष्यादितृप्त्यांगी चोद्विजेदेकनिन्दया।।१३।।
देवद्रोहस्ततस्त्याज्यस्तद्भक्तस्यापि सर्वदा।
यथारुचीश्वरः सेव्यो नान्यथा भेदमाचरेत्।।१४।।
इति
पञ्चायतनमाहात्म्यम्
Top
|