Vardanditattir


 

३०

वरदानदीतीरस्थमधुकेश्वरस्तुतिः

 

वरदानपरा मनोहरा वरदारिद्र्यहरा सदादरा।

वरदाख्यनदीविशुद्धये वरदा मेsस्त्वपि मुक्तिसिद्धये।।१।।

कृष्णासखी या तुंगभद्रया कृष्णां गता कृष्णातनुं सुभद्रया।

सैषा धुनीयं वरदाह्वयाsभया भयानकाल्पातु रिपोरघाह्वयात्।।२।।

यत्तीरे विहिताः सवाश्च मुनिभिः प्राज्ञैर्वसिष्ठादिभि-

र्यन्नीरेक्षणतोsप्यशुद्धमतिभिर्लब्धा गतिः पापिभिः।

सेयं सद्गतिदाख्ययापि वरदा श्रेयस्तपोवृद्धिदा

मन्दानामपि पारदास्तु वरदा मोदास्पदा नः सदा।।३।।

जयन्त्याख्या शुभा तस्या वरीवर्ति तटे पुरी।

जयन्तीह महेन्द्राद्या मधुकेशपुरःसरा।।४।।

शक्तिं मधुं हन्तुमदादुमाधवः पुरात्र यस्मै खलु चाद्य माधवः।

संस्थापयामास वसन्पुरः स्वयं लिंगं मनोहृन्मधुकेश्वराह्वयम्।।५।।

इन्द्रादयः स्वस्वहरित्सु संस्थिता यत्रावताराश्च मधुद्विषः स्थिताः।

शम्भोर्गणाश्चाखिललोकमङ्गला वामप्रदेशेsपि च सर्वमङ्गला।।६।।

प्रत्याहिका यत्र वरार्चनोत्सवा यानादयो यत्र च मासिकोत्सवाः।

चैत्रे रथाद्या अपि वार्षिकोत्सवा भवन्ति चोर्जे वरदीपकोत्सवाः।।७।।

एवंभूतो महादेवो नाम्ना यो मधुकेश्वरः।

त्रिकालमर्चितो भक्तानभीष्टार्थं प्रयच्छति।।८।।

(गोमूत्रिकाबंधः)

भवो मारहरः सोमप्रियोsवतु सुराघहा।

शिवो वरकरः सामगेयो जन्तुदरापहा।।९।।

(हारबंधः)

हर सुरवर समस्तमघं मम स्मरहर मामव प्रवरावर।

वरकर गरलाद शर्वशमीश शंकरधरवर जडजद्विजभृज्जय।।१०।।

 

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचिता वरदानदीतीरस्थमधुकेश्वरस्तुतिः संपूर्णा।।