९
सूर्यस्तोत्रम्
स्फोटककुष्ठमुखार्तिहरो हृद्रोगहरोsघहरोsरिहरो
हृत्।।
मामकमाशु विशोध्य
विवस्वान् पात्वतनुस्त्रितनुः स हि भास्वान्।।१।।
ध्येय इनः सविता स च
सन्मतिदो गतिदो वरभावः।।
भर्ग इदं वपुरस्य
वरेण्यं तिष्ठतु मे हृदयेsमितपुण्यम्।।२।।
इति श्री प. प.
श्रीवासुदेवानन्दसरस्वतीविरचितं सूर्यस्तोत्रं संपूर्णम्।।