Suryasa


 

सूर्यस्य

यस्योदयास्तसमये शिवाद्या अपि चाञ्जलिम्।।

बध्नन्ति विश्वसाक्षी स प्रत्यक्षः श्रूयते रविः।।१।।

यदधीना कालगतिर्यदधीनाः क्रियाः समाः।।

यन्मंत्रेण द्विजत्वाप्तिर्यन्मंत्रेण कृतार्थता।।२।।

लौकिक्यपि व्यवहृतिर्यत्प्रसादात्प्रवर्तते।।

स्मर्यते%स्माद्विश्वसृष्टिः सवितुः श्रूयते%पि च।।३।।

जगतस्तस्थुषश्चात्मा सूर्यस्तं बहुधा जगुः।।

मूर्तामूर्तं जगत्सर्वं प्राणापानात्मकं श्रुतम्।।४।।

प्राणः सूर्यो%परश्चन्द्रस्तयोः सर्वं प्रतिष्ठितम्।।

श्रीसूर्यकिरणावेशाच्चन्द्रस्यापि च चन्द्रता।।५।।

अतश्चन्द्रो न भिन्नोsस्मात्स सूर्यः सकलात्मकः।।

यं विना जगदान्ध्यं हि स देवः कैर्न पूज्यते।।६।।

तमोsमुं ग्रसतीत्येष दृष्टवादो न तात्त्विकः।।

तस्माद्भक्तेष्टदो देवो वरोsर्कश्चापराजितः।।७।।

 


Top