ShrikrishnaPancahkStotram

।।श्रीकृष्णापञ्चकस्तोत्रम्।।

कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षी साक्षीभूता नतानां निखिलमलहरा या हरानन्तमूर्तिः।।

जूर्तिघ्नी भीतिघ्नी सकलहितरता तारतम्यव्यतीतातीतावाक्चित्तमार्गं जगति गतिदयत्ख्यातिरेषा विशेषा।।१।।

कृष्णावेणी सतततरुणी वीक्षिता मध्यनीवृद्योषा वेषा सुषुमवपुषा भासमाना समाना।।

मानातीतापि भजतां दृश्यतां याति माता मा तापादेरित उपरि परिक्रान्तिवार्ता मयीह।।२।।

तव गुणगणं वारं वारं सुधारुचिरं चिरे भगवति सति स्मारं स्मारं परं त्ववरं वरम्।।

न लषति मतिः सारं सारं विचार्य परावरं लषति म इतो दूरं दूरं प्रदर्शय तं परम्।।३।।

कृष्णे कृष्णतनो मनोहरकथे नाथेश्वरि प्रार्थये þदत्तं दत्तप्रदं प्रदर्शय परं नातो वरं त्वर्थये।।

अन्यं, योsटति ते तटे नट इवानेकाङ्गधारी हरिः संसारारिररिन्दमः शमपरः साक्षाद्य आत्मा विभुः।।४।।

प्रत्यक्प्रवाहितखहृत्सु महत्सु देव उद्यन्स्वयं हरति हार्दतमः स एव।।

तीरे भ्रमत्यनुदिनं तव भावगम्यस्तं दर्शयाद्य कृपयाप्यनुपाधिगम्यम्।।५।।

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णापञ्चकं संपूर्णम्।।