Shankarasya


 

१०

शंकरस्य

ईशावास्यमिदं सर्वं चक्षोः सूर्यो अजायत। इति श्रुतिरुवाचातो महादेवः परावरः।।१।।

अष्टमूर्तैरसौ सूर्यो मूर्तित्वे परिकल्पितः। नेत्रं त्रिलोचनस्यैकमसौ सूर्यस्तदाश्रितः।।२।।

यस्य भासा सर्वमिदं विभातीति श्रुतेरिमे। तमेव भान्तमीशानमनुभान्ति खगादयः।।३।।

ईशानः सर्वविद्यानां भूतानां चेति च श्रुतेः। वेदादीनामप्यधीशः स ब्रह्मा कैर्न पूज्यते।।४।।

यस्य संहारकाले तु न किञ्चिदवशिष्यते। सृष्टिकाले तु पुनः सर्वं स एकः सृजति प्रभुः।।५।।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। इतिश्रुतेर्महादेवः श्रेष्ठोsर्च्यः सकलार्चितः।।६।।

विश्वं भूतं भवद्भव्यं सर्वं रुद्रात्मकं श्रुतम्। मृत्युंजयस्तारकोsतः स यज्ञस्य प्रसाधनः।।७।।

विषमाक्षोsपि समदृक्साशिवोsपि शिवः स च। वृषसंस्थोsप्यतिवृषो गुणात्माप्यगुणोsमलः।।८।।

यदाज्ञामुद्वहन्त्यत्र शिरसा सासुराः सुराः। अन्नं वातो वर्ष इतीषवो यस्य स विश्वपाः।।९।।

भिषक्तमं त्वां भिषजां शृणोमीति श्रुतेरयम्। स्वभक्तसंसारमहारोगहर्तापि शंकरः।।१०।।

 

Top