|
१४
श्रीशंकरापराधक्षमापनस्तोत्रम्
जय
शंकर पार्वतीपते कृपया पाहि परेश सत्पते।
निजमन्युमिषुं तथेषुधिं परिहायैहि हरन्भवांबुधिम्।।१।।
पशुपाय नमः पिनाकिने वृषवाहाय सुगुप्तनाकिने।
प्रमथाधिभुवे स्वयंभुवे
परविद्याविभवे%स्तु
शंभवे।।२।।
प्रवरोsस्म्यहमीश
पापिनां प्रवरस्त्वं करुणोsसि
तापिनाम्।
दयनीय इतःपरः क्व ते वद शंभो जगतीह सद्गते।।३।।
सचराचरविश्वहेतवे प्रभवे ते श्रुतिधर्मसेतवे।
भिषजे%स्तु
नमोsष्टमूर्तये
निजभक्तेप्सितकामपूर्तये।।४।।
इति
श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीशंकरापराधक्षमापनस्तोत्रं संपूर्णम्।।
Top
|