।।शबरप्रसादवर्णनम्।।
विभूतिभर्त्रेsन्वहमर्पयन्
चिताविभूतिमाप्त्वैकदिने
स
नोचिताम्।
गात्रार्धभस्म
प्रददौ
धनंजयच्छात्रस्तदाsभूद्वरदः
पुरंजयः।।१।।
शंकरभजनं
संसृतिभञ्जनं
किंकररञ्जनं
मायातमोs
ञ्जनम्।।ध्रु०।।
भाविकजीवनं
पावनपावनम्
आर्तपरावनं
शान्तिमहावनम्।।१।।
मत्वा
धनंजयभूपानुशासनं
शबरोsप्यकरोल्लिंगसमार्चनम्।।२।।
नवचितिभूतिं
शबरोsनुदिनं
भूतिवरायादददनुसवनम्।।३।।
एकदिने
स
क्वाप्यलभन्न
भस्म
स
ऐच्छच्छबरो
निधनम्।।४।।
आह
तदा
स्त्रीः
कुरु
सदनेन
सहदयितार्धस्ववपुर्दहनम्।।५।।
स
तथा
दग्ध्वा
भसितेन
तेन
शंकरपूजनमकरोददीनः।।६।।
आह्वयदंगनामर्चनावसान
ईशस्तुष्टोsदर्शयदंगनाम्।।७।।
प्रादुर्भूत्वा
स्वयमीशानस्ताभ्यां
प्रददौ
स
निजस्थानम्।।८।।
यस्य
न
मानं
तव
महिमानं
तमजानुदिनं
स्मरामि
नूनम्।।९।।
श्रद्धाभक्तिर्मे
न
न
तेsर्चनं
जाने
क्षमस्वापराधमीशान।।१०।।
इति
वासुदेवानंदसरस्वतीयतिकृतविनतिं
शृण्वीशान।।११।।
इति
गीतिः।
<ÊiÉ MÉÒÊiÉ&
Top