|
।।श्रीसरस्वतीस्तोत्रम्।।
हृद्वक्षस्थितविद्रुमाधिकमदा
त्रीशस्य
या
स्फूर्तिदा
मालापुस्तकपद्मभृच्च
वरदा या सर्व
भाषास्पदा।।
या शंखस्फटिकर्क्षनाथविशदा या शारदा सर्वदा। प्रीता तिष्ठतु
मन्मुखे सुवरदा वाग्जाड्यदा सर्वदा।।१।।
यस्यास्त्रीणी गुहागतानि हि पदान्येकं त्वनेकेडितं स्तोतुं तां
निगमेडितां बुधकुलं जातं त्वलं व्रीडितम्।
ब्रह्माद्या अपि देवता नहि विदुर्यस्याः परं क्रीडितं
प्रारब्धात्र नुतिर्मयेव रुरुणा शार्दूलविक्रीडितम्।।२।।
अयि सर्वगुहास्थितेsजिते,
मयि तेsपांगदृगस्तु
पूजिते।। त्वदृते नहि वागधीश्वरि, व्यवहारोsपि
परमेश्वरि।।३।।
समयोचितवाक्प्रदे मुदे विदुषां संसदि वादिवाददे।। मयि
मातरशेषधारणा दयितेsजस्य
सदास्तु तारणा।।४।।
यद्धस्ते कमलं च तत्र कमला लीलाविहारी हरिः तस्याः सन्निकटेsस्य
नाभिकमले स्याल्लोकमूले विधिः।।
वेदा भेदभिदो मुखेषु च विधेर्ये स्वप्रमाणा नृणां तेभ्यो
यज्ञविधिस्ततोsमरगणा
जीवन्ति सा पातु वाक्।।५।।
नमो नमस्तेsस्तु
महासरस्वति प्रसीद मातर्जगतो महस्वति।।
परेशि वाग्वादिनि देवि भास्वति प्रकाशके तेsस्तु
नभो यशस्वति।।६।।
त्रिषष्टिवर्णाssशुगयुक्परा
या भूत्वाथ पश्यंत्यभिधाथ मध्या।।
स्थानप्रयत्नादिवशान्मुखे च या वैखरीति प्रणमामि तां गाम्।।७।।
त्वं ब्रह्मयोनिरपरा सरस्वति परावरा।।
साक्षात्स्वभक्तहृत्संस्थे प्रसीद मतिचेतने।।८।।
सरस्वतीस्तुतिमिमां वासुदेवसरस्वती।। चक्रे यमनुजग्राह
नरसिंहसरस्वती।।९।।
इति श्री. प. प.
श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसरस्वतीस्तोत्रं
संपूर्णम्।।
Top
|