४१
पद्यात्मकश्रीरामस्तोत्रम्
राममाश्रय
राममाश्रय राममाश्रय भद्रदम्।
राममाश्रयतां कुतोsपि
भवेत्कुदैवमभद्रदम्।।ध्रु०।।
यस्य पादसरोजलग्नरजःकणादपि तत्क्षणम्।
गौतमर्षिवधूद्धृतिः किल यत्कटाक्षनिरीक्षणम्।।
आरवींदु बिभीषणाय सुराज्यमर्पयदाशु तम्।
चित्त चिंतय विश्रुतं न च हन्ति कोsपि
यदाश्रितम्।।१।।
माययापि यदाश्रितस्त्विह कोsपि
नो परिभूयते।
राममार्तिविराममाश्रय कं यतो ह्यनुभूयते।।
यस्य नामवशाच्छिला अपि सिन्धुना हि समुद्धृताः।
ते जडा अजडा भवन्ति न किं वदाsत्र
समुद्धृताः।।२।।
सर्वदैवतकिंशरोsखिलशंकरोsपि
हि शंकरः।
यस्य नाम विमुक्तिधाम जपत्यकामहितादरः।।
वासुदेवसरस्वती यमगायताखिलकामदम्।
राममाश्रय तं सतां मतमाशु शाश्वतधामदम्।।३।।
इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचिता श्रीरामस्तुतिः
संपूर्णा।।