२३
द्व्यर्थिषडाननस्तोत्रम्
दक्षेण हस्तेन गदां दधान क्रौञ्चञ्च वामेन सुसावधानः।
स शुक्रजो वोsवतु
कार्तिकेयः षाण्मातुरः साम्बसुतोsर्यजेयः।।१।।
षट्शिरो द्वादशकरो द्विगुणोsत्रिज
एव किम्।
सोsम्बसुतो
द्विहस्तोsत्र
सुब्रह्मण्यो मयेक्षितः।।२।।
हत्वा बलात्संपदमाश्वदैवीं पुष्णाति गोपायति वैश्वदैवीम्।
सुपूजिस्त्वं सुमनः स्वभक्तगते नमस्तेsस्तु
सदा विरक्तम्।।३।।
विशेषतस्त्वां भुवि दाक्षिणात्या भजन्ति भक्त्या परयाज तेषाम्।
अनुग्रहार्थं द्विभुजस्वरूपं प्रकाश्य चास्से दिशि
दक्षिणस्याम्।।४।।
स्त्रीसंगतिर्दुर्गतिरेव साक्षादित्थं समाख्यापयितुं वधूनाम्।
सुस्पर्शगन्धोsपि
सुदूरतस्ते समुझ्झितो देव पदे नमस्ते।।५।।
स्वामिन्नम्बास्नेहलतां विततामपि तां क्षणात्।
मायामयीं निरस्याsजो
विजहार नमामि तम्।।६।।
एकान्तसेविनमपि स्वामिनं त्वोपतस्थिरे।
एकान्त भक्ता यच्चित्ते नैव कामोद्गतिः स्थिरे।।७।।
स्वामिस्तारकजित्सर्वलोककारकशक्तिधृक्।
अंबासुत नमस्तेsस्तु
प्रसीद परिपाहि नः।।८।।
योगापेक्षा मे न ते दर्शनार्थं नापेक्षा मे
भाविपूज्योद्भवार्थम्।
भक्त्या भूयाद्दर्शनं ते कदापि स्यात्साफल्यं जन्मनो मे ततोsपि।।९।।
स्मर्तृगामी कलौ योsम्बातनयो
द्विशयो मतः।
चक्रे द्व्यर्थां तस्य नुतिं वासुदेवसरस्वती।।१०।।
इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं
कार्तिकस्वामीस्तोत्रं संपूर्णम्।।