|
२२
द्व्यर्थिरामेश्वरस्तोत्रम्
भागीरथीपुण्यजलाभिषक्तो यो ब्रह्महत्याद्यघतः पुनाति।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।१।।
यद्दर्शनं कायिकवाचिकादिपापापहं तापहरं वरं च।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।२।।
त्रिकालसंदर्शनतोsपि
तृप्तो ददाति सिद्धिरुभयीर्महात्मा।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।३।।
रुद्राभिषेकप्रिय ईश्वरो यः सर्वार्थदो भाविककामपूरः।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।४।।
यो
बिल्वपत्रैस्त्रिदलैर्भवारिः संपूजितो यच्छति भुक्तिमुक्ती।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।५।।
संपूजितो योsप्यजितः
प्रदोषे ददाति भुक्तिं सकलाधिशान्तिम्।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।६।।
यः शुद्धचित्तेन हि
संस्मृतोsजो
भवत्यरं भक्तजितो जितारिः।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।७।।
न
ज्ञायते वाङ्मनसातिदूरो देवादिभिर्यन्महिमानियत्तः।।
रामेश्वरोsसौ
भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः।।८।।
रामेश्वराष्टकमिदं सुखदं विखेदं तापत्रयोपशमदं मदमत्सरादम्।।
भक्तेष्टदं जननमृत्युगदागदं यो भक्त्या पठेत्स परमं पदमेति
शंभोः।।९।।
इति
श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं
भरताख्यद्विजस्थापितरामेश्वरस्तोत्रं संपूर्णम्।।
|