२९
धान्यवाडिकाक्षेत्रमाहात्म्यम्
देशे महाराष्ट्रसमाह्वये भुवि ख्याता यथा श्रीनरसिंहवाटिका।
कृष्णानदीपश्चिमकूल आन्ध्रके देशे तथा पूरपि धान्यवाडिका।।१।।
दिवि यथाध्यमरास्त्यमरावती भुवि तथा ह्यपराप्यमरावती।
दिवि तु सास्त्यमरेश्वरमण्डिता भुवि तथाप्यमरेश्वरमण्डिता।।२।।
चामुण्डिकेशार्पितसाधुमानं काशीसमानं भुवि भासमानम्।
क्षेत्रं त्विदं पातकशोकहन्तृ श्रीकृष्णया मण्डितमिष्टदातृ।।३।।
कृष्णोत्तुंगतरंगसंगवशतो वातोsतिपूतो
यतो
धावन्छान्त इतस्ततः स्वगतितः प्राप्तं त्रिधा दुष्कृतम्।
दूरादेव निवारयत्यविरतं जातं यदंगादित-
स्तद्भक्त्यात्र सतां सदा निवसतां पापस्य वार्ता कुतः।।४।।
भक्तेष्टदोsत्र
प्रणवेश्वरः स्थितः श्रीमानगस्त्येश्वर इष्टदः स्थितः।
सोमेश्वरो यत्र च कोसलेश्वरः श्रीवीरभद्रेश्वर आस्तिकादरः।।५।।
लिंगैर्युतं पंचभिरेवमुच्चमुच्चंडकालान्तकमाशु यच्च।
सकृत्प्रणामात्सकलार्थदातृ तदामरं लिंगमनिष्टहन्तृ।।६।।
यद्वेणुनादश्रवणादचेतनाः सचेतनाः स्युः सजवास्तथाजवाः।
क्षेत्रं त्विदं तेन सदास्त्यधिष्ठितं गोपालकृष्णेन
ददात्यभीप्सितम्।।७।।
भूतेश पाहि भवतारक तारकघ्न तातेशतः परमुदर्पकदर्पकघ्न।
कोsस्माकमत्रभवतोषदोsन्यो
मान्यो विपत्तिवनपावकपावकाक्ष।।८।।
चामुण्डेश सगोपालपालकोस्यमरेश्वर।
लोकशोकहर श्लोकाष्टकं शृणु महेश्वर।।९।।
इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीधान्यवाडिकाक्षेत्रमाहात्म्यं संपूर्णम्।।