३४
दशावतारस्तोत्रम्
मत्स्योब्धिविहारः
पूर्वो ह्यवतारः। जातः श्रुतिहारः पूज्यो मनुतारः।।१।।
नष्टामरबाधःकूर्मोsथ
धराधः। दत्वा वहतीशः क्ष्मां योsप्यमृतेशः।।२।।
भूभृत्स हिरण्याक्षघ्नोsत्र
तृतीयः। भूदार उदारो यज्ञो भजनीयः।।३।।
भृक्त्योक्त्यनुसारी पूर्वोsसुरवैरी।
नाम्नापि नृसिंहः साक्षाच्च नृसिंहः।।४।।
यो वामनवेषः सन् पञ्चम एषः। याञ्चोपधिबद्धस्तेनो बलिरद्धा।।५।।
दूराट्क्षयकामः स्याद्भार्गवरामः। क्ष्मादो गुरुदासः षष्ठोsब्धनिवासः।।६।।
राट्सप्तम आसीद्रामो वनवासी। पित्र्युक्त्यनुसारी
रक्षोलयकारी।।७।।
वर्ण्यष्टम इष्टः कृष्णो हतदुष्टः। यः षोडशनारीसाहस्रविहारी।।८।।
बुद्धो नवमोsयं
विस्तारितमायम्। यं कोsपि
न वेद सोsप्यावृतिमर्दः।।९।।
म्लेंच्छक्षयकर्ता कल्की वृषभर्ता। विप्रो भवितार्थ्यः शूरो दशमोsर्च्यः।।१०।।
इति
श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं
संपूर्णम्।।
Top