Anadik



         

१३

अनादिकल्पेश्वरस्तोत्रम्

कर्पूरगौरो भुजगेन्द्रहारो गंगाधरो लोकहितावतारः। सर्वेश्वरो देववरोsप्यघोरो योsनादिकल्पेश्वर एव सोsसौ।।१।।

कैलासवासी गिरिजाविलासी श्मशानवासी स्वमनोनिवासी। काशीनिवासी विजयप्रकाशी योsनादिकल्पेश्वर एव सोsसौ।।२।।

त्रिशूलधारी भवदुःखहारी कंदर्पवैरी रजनीशधारी। कपर्दधारी भजकानुसारी योsनादिकल्पेश्वर एव सोsसौ।।३।।

लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः। विद्याधिनाथः पुरुषार्थनाथो योsनादिकल्पेश्वर एव सोsसौ।।४।।

लिंगं परिच्छेत्तुमधोगतोयस्य नारायणश्चोपरि लोकनाथः। भूवतुस्तावपि नो समर्थौ योsनादिकल्पेश्वर एव सोsसौ।।५।।

यं रावणस्तांडवकौशलेन गीतेन चातोषयदस्य सोsत्र। कृपाकटाक्षेण समृद्धिमाप योsनादिकल्पेश्वर एव सोsसौ।।६।।

सकृच्च बाणोsवनमय्य शीर्षं यस्याग्रतः सोsप्यलभत्समृद्धिम्। देवेन्द्रसंपत्त्यधिकां गरिष्ठां योsनादिकल्पेश्वर एव सोsसौ।।७।।

गुणान्विमातुं न समर्थ एष शेषश्च जीवोsपि विकुंठितोsस्य। श्रुतिश्च नूनं चकितं बभाषे योsनादिकल्पेश्वर एव सोsसौ।।८।।

अनादिकल्पेश उमेश एतत्स्तवाष्टकं यः पठति त्रिकालम्। स धौतपापोsखिललोकवंद्यं शैवं पदं यास्यति भक्तिमांश्चेत्।।९।।

 

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं अनादिकल्पेश्वरस्तोत्रं संपूर्णम्।।


Top