Nrusinhwatiks

 

५८

श्रीनर्मदालहरी

 

नर्मदे हरसंभूते हरलिंगार्चनादृते। हरलिंगाञ्चिततटे जयाघं नर्मदे हर।।

नमः प्रातर्मातर्गिरिशदुहितर्नर्मद उत। क्षपायां रेवे ते नम इतमते मेकलसुते।।

नमो नित्यं सत्यं हि त उदकमत्यंतकंकम्। हरत्याधिं सा त्वमखिलविषहे मेर्पय सुखम्।।१।।

महेशाङ्गोद्भूता सुरवरनराणामभिमता। युता सिद्धैर्याता प्रसभमिव पाश्चात्यजलधिम्।।

वृता भीमेनैषा हृतभजकदोषा वरवृषा। सुभूषा सद्वेषा रुचिरवपुषा भात्यतिरुषा।।२।।

तटे यस्यास्तप्त्वा तप उपरिगैर्दुश्चरमरम्। वरं ह्यत्रेः पत्नी परममनसूया गतभया।।

स्वपुत्रत्वेनैव त्रिभुवनसमाराध्यमभवम्। समापास्मद्दैवं क इह सरितं तां तु न नमेत्।।३।।

प्रयान्तीं सिन्धुं या प्रतिहतगतिर्विन्ध्यपदतः। महावेगाभङ्गा सकलमलभङ्गा वरभगा।।

नगान्भित्वानेकानपि विविधलोकान्स्वबलतः। पुनातीयं रेवा जगति वरभावाहृतभवा।।४।।

प्रसिद्धाऽऽस्ते यस्याजनिरमरकण्ठेमरवृते। मते नाभिः सिद्धेश्वरपुर उतासौ भृगुपुरे।।

परे सिन्धौ लीना जगति मलिनानां सुमतिदा। समुद्धर्त्री भर्त्री निजभजकलोकस्य गतिदा।।५।।

सरस्वत्याः सत्या जलमिह पुनाति त्रिदिनतः। स्म कालिन्द्या नद्या अपि च सलिलं सप्तदिनतः।।

महाभङ्गा गङ्गाखिलदुरितभङ्गा सपदि सा। महाभावा रेवा कथमपि हि दृष्ट्यैव सहसा।।६।।

स्वभावादासिन्धोरियमचलजाभास्ति सुलभा। त्रिषु स्थानेष्वेषा हृतमलिनदोषा न सुलभा।।

नगर्यामोङ्काराभिधपशुपतेरुत्तरगति-। र्युता वौराभिख्येपि च भृगुमुनेः क्षेत्र उशति।।७।।

पुनन्त्यन्या मान्या अपि जगति गङ्गादिसरितः। प्रयागादिस्थाने महति न हि सर्वत्र दुरितात्।।

इयं रेवा देवाधिपतिशिवसेव्योभयतटा। तटे यत्र क्वापि स्वकमिह पुनात्याजलनिधेः।।८।।

त्रिशूलाङ्कान्यच्छान्यगणितविमानानि त उप-। र्युपर्यस्याः कूलं सुविमलमुपादाय सततम्।।

स्थिताः शंभोर्दूता मृतमिह तु नेतुं शिवपुरम्। वरं तेषामुच्चैरहमहमिकाशब्द उदितः।।९।।

बहिःशब्दात्तस्मात्प्रविगलितधैर्या यमभटाः। मृतान्नेतुं प्राप्ता अपि सपदि ते वेपितहृदः।।

अधीरा धीरा द्राक् तत उत परावृत्य सजवाः। स्ववासं संजग्मुः खलु तत इतः को नरकभाक्।।१०।।

प्रभावोस्या मृत्युंजयदुहितुरेवं हि सरितः। यतो%तो%सौ रेवा नृमरणभवान्तास्ति विदिता।।

न तां कः सेवेतानुपदमृतभीतिर्हतमतिः। समानां तापानामपि च दुरितानां प्रशमनीम्।।११।।

यदीयाम्बुस्पृष्टः स्पृशति गतियोगेन पवनः। मनोहृद्यं यं तं तमपि स पुनातीति महिमा।।

प्रतीतो यस्याः सा जगति गतिदासावभयदा। सदा सक्तान्युक्तान्किमुत भजतामुद्धरति नः।।१२।।

यदीयं पानीयं सदमृतमयं चित्सुखमयम्। सुपेयं चायुष्यं मतिदमुत वर्चस्यमभयम्।।

यशस्यं चक्षुष्यं विहितविजयं स्वर्ग्यमलयम्। सुभव्यं सद्गेयं सकलजगदारोग्यविजयम्।।१३।।

सुरप्रार्थ्यं पथ्यं स्वयमिह च पूज्यं विजयते। जगन्मान्यं धन्यं मलहृदिह लभ्यं तु नियतेः।।

नियोगात्सा रेवा नृभवदवदावार्तिशमनी। मनीषीड्या पायादविरतमपायाद्वरधुनी।।१४।।

नियम्यात्मानं ये विहितनियमाः सन्ततपरि-। क्रमं कुर्वन्त्यस्या अमलजलसेवैकनियमाः।।

सुपूतास्ते धन्या जगति बहुमान्याः परगतिम्। व्रजन्त्येवं रेवा जयति खलु शर्वाङ्गजनिता।।१५।।

अये रेवे देवेडितगुणगणे मर्त्यतरणे। क्षणेनापि स्नानात्परमगतिदाभीष्टवरदा।।

त्वमेवातो देवा अपि तव न चेच्छन्ति तव तटम्। परित्यक्तुं वक्तुं तव गुणगुणान्कः प्रभुरिह।।१६।।

यदीये सत्तोये हिमनगसुतागर्भगगणा-धिपस्योत्कृत्यारं शिर इह सुरारिः स्वहितकृत्।।

महामायावी प्राक्षिपदपभयोतर्क्यमहिमे-श्वरस्यात्माच्छीर्षाद्गतरुधिरसंस्पर्शवशतः।।१७।।

ततोनन्ता आब्धेः स्मरहरसुतायास्तु सलिले-मलेनन्ता जाता इह रुधिरभासः खलु शिलाः।।

अभूवन्गाणेशा अखिलमलसंक्षालनपरा। वरापूज्या विघ्नक्षपणपटवस्तेपि वरदाः।।१८।।

यदीये पानीये भृशममृतसंस्पर्धिजननि। क्षपायां ते चोङ्कारेश्वरवरपुरात्पूर्वत उत।।

महोत्तुंगस्थानात्पतित उपलास्ते पशुपते-र्भवन्त्याहो बाणाभिधपरमलिङ्गानि बहुशः।।१९।।

महान्तस्ते बाणा अपि परमसूक्ष्माः कतिपयाः। शुभा कर्पूराभाः शशधरकलाढ्याः कतिपयाः।।

परे केचिच्चित्रा अपि च निखिलास्तेत्र भजनात्। गजारेः सायुज्यं ददत इति रेवाम्बुमहिमा।।२०।।

एवंप्रभावे जय देवि रेवे, प्रसीद मे तेम्बु सदैव सेवे।

श्रीनर्मदे देवि नमो नमस्ते श्रीशर्मदे सोमसुते नमस्ते।।२१।।

अवतु विगतरोषास्मान्महासिंधुयोषा। परिहृतनतदोषा या नमोमात्रतोषा।।

जयतु भजकपोषा सा स्रवन्ती विशेषा। निरुपमतमभूषा मालिनी दिव्यवेषा।।२२।।

सन्मानसस्वच्छसुदिव्यनीरा। नीरागयोग्याश्रितरम्यतीरा।।

धीरार्चिता नित्यमखण्डपूरा। सा रातु रेवेष्टमनंतसारा।।२३।।

स्वभक्तवरदे सुरद्विषदभेद्यसद्वर्मदे। सुदुर्गतिदकर्मदे हतगदेपि सद्धर्मदे।।

अये नदि न दीनतां व्रजसि कर्हिचिच्छर्मदे। प्रसीद जनकामदे जय नमोस्तु ते नर्मदे।।२४।।

यन्मूलेस्त्यमरेश्वरो विजयते श्रीसिद्धनाथस्तथा। कावेरीपरिवेष्टितो गतिद ओंकारोपरे चामिताः।।

मध्येन्येपि च शूलपाणिसहिताः पाश्चात्यभागे स्थिताः।

सर्वे ते भजतामभीष्टफलदा वरीवर्ति सा नर्मदा।।२५।।

(हारबन्धः)

हरपरमरये समस्तमघं मम कुरु गुरुकरुणां समस्तमते मयि।।

खलबलदलने समस्तमनोमम्। हर दरमरमप्यमर्त्यमतेमले।।२६।।

यस्य स्मृत्या च सद्यः कलिमलविलयो जायते भावुकानाम्।

यत्स्मृत्या स्मर्तृगामी भवभयहृदुपेत्यात्मदो भावुकानाम्।।

दत्तात्रेयस्य तस्य प्रशमितमनसः सद्वरीवर्ति मातुः।

स्थानं यस्यास्तटे सा विजयत उशती नर्मदा शर्मदा नः।।२७।।

(अलंकारः)

कुष्ठाद्यार्तोप्यरोगो भवति सदनसूयाश्रमे यत्तटे यन्।

मध्ये शुक्तादितीर्थान्यपि झटिति पुनन्त्युद्धरत्याशु या च।।

प्रेतश्राद्धेन नारायणबलित इतं दुर्गतिं मुक्तिदां ताम्।

रेवामस्तौदखेदां परमसुहितदां नर्मदां वासुदेवः।।१।।

(गोमूत्रिकाबंधः)

भवान्तकेभयं देहि तापं मे हर नर्मदे।।

भवात्मके नयं देहि पापं मे हर नर्मदे।।

जय जय शिवकन्ये नर्मदे शर्मदे त्वम्।

जय जय जनमान्ये धर्मदेधर्मदे त्वम्।।

जय जय सुवदान्ये धर्मदे कर्मदे त्वम्।

जय जय भुवि धन्ये भर्मदे वर्मदे त्वम्।।

 

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचिता श्रीनर्मदालहरी संपूर्णा।।

 

 

 

 

Top